अगस्त 2019
अंक - 52 | कुल अंक - 55
प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

जयतु संस्कृतम्
 
संस्कृतं किमर्थम् आवश्यकम्? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? 
                           
संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम्? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनंचावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम्। 
विषयेsस्मिन् नात्र मम कश्चन दुराग्रहः। अहन्तु अनुभवाधारेण वदामि। आकाशवाण्यां दूरदर्शने च संस्कृत-वार्ता-प्रसारणनिरते एतावति ४५-वर्षावधिके काले अनेके तादृशाः अनुभवाः अभवन् यत् नाहं संस्कृत-वार्ता-प्रसारकः अभविष्यं चेत् ममास्तित्वमेव नाभविष्यत्। ‘अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं...’ इत्यत्र ‘सनातन-वैदिक-धर्मावलम्बिनां’ इति शब्दाः साशयं लिखिताः सन्ति। 
 
कश्चन एवमपि प्रष्टुं शक्नोति यत् किं ये भारतीयाः न सन्ति वा वैदिक-सनातन-धर्मावलम्बिनो नैव भवन्ति, किं ते जीवितुं वा श्वसितुं वा नैव शक्नुवन्ति? अवश्यम्, नात्र कश्चन सन्देह-लेशोsस्ति। परन्तु येन विधिना वयं भरत-वंशिनः आर्य-श्रेष्ठाः देवपूज्याः जगद्गुरु-पदवी-धारिणः च सन्तः सम्पूर्ण-जगतः शुभाकाङ्क्षिणः च भवन्तः सुदीर्घ-काल-पर्यन्तां विश्वजनीन-यात्रां वा लोक-लोकोत्तर-यात्रां विहितवन्तः, तदेव वैशिष्ट्यम् अस्मदीयम्। अत एव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम्।  
इतोऽपि अनेकानि अपराणि कारणानि सन्ति यानि अस्मान् तथ्यमिदं दृढतया स्वीकर्तुं प्रेरयन्ति यत् संस्कृतं विना अस्माकम् इतरत् प्रेयः श्रेयः चाभिज्ञानं नैवास्ति। 
 
नात्र केवलं संस्कृत-महिम्नो गानम् अभीष्टं मम। अहन्तु केवलं निजानुभवाधारेण विवच्मि। जगति साम्प्रतं स्फुटमिदं तथ्यं यत् महर्षेः पतञ्जलेः अष्टाङ्ग-योगाभ्यासः सर्वेषामपि लाभाय कल्पते, तद्वद् आयुर्वेदानुसरणं समेषामपि कृते लाभप्रदम्। भवेद्वा सः भारतीयो वा भारतीया आहोस्वित् वैदेशिको वा वैदेशिकी। सर्वेषामपि कृते संस्कृताध्ययनं योगायुर्वेदवदेव परमं लाभप्रदम्।  
संस्कृतमधिकृत्य स्वामिना विवेकानन्देन उक्तमस्ति यत् संस्कृतशब्दानां प्रौढिः मधुरिमा अर्थसम्पुष्टिः च अन्यभाषाशब्दानां न सन्त्येव इति। बौद्धमतस्य अधःपतनस्य एकं कारणम् अपि तेषां संस्कृतावगणनम् एव। राष्ट्रपुरोगतये भरणसारथ्यं कर्तुं संस्कृतज्ञाः एव शक्ताः इति |महर्षि-अरविन्द-लोकमान्य-टिळक-स्वामिचिन्मयानन्द-श्रीरामचन्द्रडोंगरे-मोरारीबापू-रमेशभाई-ओझा-अमृतानन्दमयीत्यादिभिः अनेकैःआचार्यैः अनेकैः वाक्यैः अनेकेषु सन्दर्भेषु च संस्कृताध्ययनस्य अनिवार्यत्वंप्रस्तुतम्। डॉ.मैक्समूलर-गेथे-प्रभृतयः पाश्चात्यविपश्चितः अपिसंस्कृताध्ययनस्य महत्वं सुतरां प्रतिपादितवन्तः। एनां भाषां विना अथर्ववेदतः आरब्धस्य आयुर्वेदस्य सुष्ठु अध्ययनम् असाध्यम्। ज्यौतिषे महाशास्त्रे संस्कृतेतरच्छात्राणां प्रवेशाधिकारः नास्ति। वेदान्तादिसकलशास्त्राणाम् अध्ययनाय संस्कृतमनिवार्यम्। काव्यरसास्वादकैःअवश्यम् अध्येयं भवति संस्कृतम्। भाषान्तरानुवादाभ्यां यत् पठनं भवति तत्तु पूर्णास्वादने रसभङ्गहेतुत्वेन समुपकल्प्यते। भूभृत् शब्दस्य भूमिं भरति इति शब्दार्थः शास्त्रतत्त्वार्थश्च अनुवादे उक्तेन माउण्टेन् [mountain] इति शब्देन कथं ज्ञातुं शक्यते? यया भाषया लिखितं तया एव पठनीयंभवति काव्यम्। उत्तमोत्तम-काव्यानि संस्कृते एव सन्ति यानि
अपठित्वा  काव्यास्वादनं पूर्णं न भवति। अतः संस्कृतं काव्यास्वादकैः अपि पठनीयम्। 
 
भारतेतिहासं ज्ञातुं ये इच्छन्ति तेषां प्रबलं साधनम् एषा एव भाषास्ति। तैः वेदेतिहास-पुराणादीनाम् आश्रयः करणीयः। शास्त्रकारैः तन्त्रज्ञैः भाषाशास्त्रज्ञैःच संस्कृताध्ययनेन महान् लाभः अधिगम्यते इति समुदीरितं नैकत्र |सर्वोपरि व्यक्तित्वविकासेच्छुः यः सोऽपि संस्कृताध्ययनशीलः स्यात्। एषः विज्ञानस्य तन्त्रज्ञानस्य च युगः अस्य महादानं कम्प्यूटर्-यन्त्रम्। तत्रापि अतितरां समुपयोगिनी सहजभाषा संस्कृतभाषा एवेति तज्ज्ञानाम् अभिमतम्। महामुनेः पाणिनेः काले तादृशं वा किञ्चित् कम्प्यूटरयन्त्रम् आसीत्इति चिन्तनमुद्दीपयति तस्य सूत्रशैली। अहं स्वीयेषु‘संस्कृतं पठ: आधुनिको भव [Learn Sanskrit : Be Modern] – इति शृङ्खला-व्याख्यानेषु पौनःपुनिकं सबलञ्च कथयामि 
यत् महामुनिना पाणिना संस्कृत-व्याकरणं शब्दानुशासनत्वेन व्यापकं  सुव्यवस्थितं गणितात्मकं वैज्ञानिकम् अनुशासनात्मकं च विधातुम्‘अष्टाध्यायी’ति ‘सोफ्टवेयर’-निर्माणं कृतम् | एवं च, संस्कृति-साहित्य-विज्ञान-तन्त्रज्ञानादिषु सर्वत्र विराजमाना संस्कृतभाषा स्वाभिमानं स्वाश्रयं स्वराष्ट्रस्नेहं सहिष्णुतां संस्कृतिं सम्पत्तिं च सततं सम्वर्द्धयति। अत एव संस्कृतं राष्ट्रस्य प्राणवायुः सनातनधर्मस्तु राष्ट्रस्य जीवात्मा चेति कथ्यते। भारतराष्ट्रस्य अस्मिता रक्षणीया चेत् संस्कृताध्ययनं हि परमावश्यकम्। महामुनिना पतञ्जलिना व्याकरण-महाभाष्ये प्रोक्तम् - "एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः च स्वर्गे लोके च कामधुक् भवति”इति प्रमाणेनैव संस्कृताध्ययनस्य महत्त्वं समुपयोगित्वञ्च सरलतया अवगन्तुं शक्यते। 
 
साम्प्रतं प्रश्नः समुदेति यत् केनवासरल-प्रकारेणएतत्शिक्षितुं शक्यते? अस्तु, प्राचीना अध्ययन-शैली तु प्रायेण गुरुकुल-पद्धतिरेव आसीत्। गच्छता कालेनात्र अनेकविधं परिवर्तनं जातं जीवन-पद्धतौ शिक्षा-पद्धतौ च। एवमपि वक्तुं शक्यते यत् साम्प्रतं संस्कृत-शिक्षणं पूर्व-कालापेक्षया सरलतरं सञ्जातम्। सामान्यतया संस्कृत-शिक्षणं हि पारम्परिक-संस्कृत-पाठशालासु, वैदिक-पाठशालासु, विद्यालयेषु,महाविद्यालयेषु, विश्व-विद्यालयेषु च विधीयते एव। परञ्च साम्प्रतिके समुन्नते सूचना-प्रविधि-काले सङ्गणक-अन्तर्जाल-माध्यमेन अध्ययन-अध्यापनयोः परिधिः व्यापकतरः सुगमश्च सम्वृत्तः। वयं साम्प्रतम् अनेकविधैः विद्युदाणविकैः [electronic] बह्वायाम-युतैः सञ्चार-माध्यमैः [multi-media] सामाजिक-सञ्चार-माध्यमैः [social media] चापि संस्कृत-शिक्षणं कर्तुं पारयामः। अधुनातनैः समुपायैः [यथा- युट्युब्-ह्वाट्स्-अप्-फेसबुक्-ट्विटर्-इन्स्ट्राग्राम्ऑ न्लाइन[सद्यस्कः]- वेब्साइट्-ब्लॉग-प्रभृति-समुपकरणैः] सरलतया संस्कृतं शिक्षतुं शक्नुमः। 

 


- डॉ. बलदेवानन्द सागर

रचनाकार परिचय
डॉ. बलदेवानन्द सागर

पत्रिका में आपका योगदान . . .
विमर्श (1)जयतु संस्कृतम् (4)