प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित
अगस्त 2017
अंक -53

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

कथा
पथः एव ध्येयं भवितुं शक्नोति 
 
नन्दिनी एका सामान्या बालिका आसीत्| सा तस्याः परिवारेण सह, मात्रा पित्रा च सह सुखेन अवसत्| तस्याः पिता सामान्यं वृत्तिम् अकरोत्  एवं तस्य आयः अपि न्यूनः आसीत्| नन्दिन्याः माता अपि सीवनकार्यं करोति स्म तेन गृहे किञ्चित् आर्थिकसहायं अभवत्| ते अतीव धनिकाः न आसन् किन्तु सन्तुष्टाः आसन्| माता पिता च नन्दिन्याम् अतीव स्नेहं कुरुतः स्म| सा गृहस्य समीपे एकस्यां शालायां पञ्चकक्षायाम्अभ्यासं करोति स्म| सा तस्यां कक्षायां तेजस्विनी विध्यार्थिनी आसीत्| तस्याः अभ्यासे अभिरुचिः| सा शिक्षिका भवितुं स्वप्नम् ईक्षते स्म| यथा तस्याः त्रयाणां परिवारः सुखेन समयं व्यतीतं कुर्वन्ति स्म| 
 
किन्तु जीवने कदा परिवर्तनम् आगमिष्यति तत् कोअपि न् जानाति| तत् २६ जनवरी, २००० दिने, प्रभाते सार्धअष्टवादने नन्दिनी शालायां ध्वज्वन्दन कार्यक्रमं गतवती| तस्मिन समये एकः भयावहः भुकंपः अभवत्| प्रायः पञ्चनिमिष्पर्यन्तं भूमिः अकम्पत| नन्दिन्याः गृहं संनिपात अभवत्| केवलं गृहं न् , गृहेन सह माता पिता च| केवलं पञ्चनिमिषावत् भुकंपः बहुविनाशः अकरोत्| नन्दिन्याः शिरसः उपरि आकाशम् अपतत्| सा अनाथा अभवत्|
 
सा तु बालिका खलु| अतः सा एकाकिनि वासं कर्तुं समर्था नास्ति| तस्याः बान्धव्जनेषु एकमात्रं पितृव्यः आसीत्| इदानीं नन्दिनी तेन सह तस्य गृहे वसनं कृतवती| किञ्चितसमयपर्यन्तं सर्वं कुशलम् आसीत्|  किन्तु इदानीं पित्रुव्याय पितृव्यायै च नन्दिनी भाररूपेन भाषते| तस्याः पितृव्यः च अधिकः धनिकः नास्ति| सामान्या वृतिः, न्यूनः आयः, तस्य स्वस्य परिवारः च एवं उपरी नन्दिनी अपि| पितृव्यः नन्दिनीम् अभ्यासमुक्तां कृतवान्|
 
इदानीं सा मौनेन गृहस्य संपूर्ण कार्यं करोति स्म| सा विवशा आसीत्| किन्तु पितृव्यस्य संतोषः न् अभवत्| यद्यपि बालश्रमिकनियोजनं अपराधं अस्ति तथापि पितृव्यः नन्दिनीं कार्यं कृत्वा बहिः प्रेषितवती| तस्य गृहस्य समीपे एका महिला-जमनाभगिनी-वसति स्म| सा गृहं-गृहं भोजनं पक्तुं गछति स्म| इदानीं नन्दिनी तस्याः समीपे कार्यं कृतवती| जमनाभगिनी बहु दयालु आसीत्| सा नन्दिनीं पुत्रीवत् स्निह्यति स्म|
इदानीं नन्दिनी अपि आनन्दिता आसीत्| किन्तु सा अभ्यासं कर्तुं न् शकनोति एति चिन्तयित्वा दुखं अनुभवति स्म| नन्दिनी तस्याः माता समान बहु श्रद्धालु आसीत्| सा कदापि ईश्वरं न् व्याक्रोशति| 
 
शनै: शनैः सा पाककलायां निपुणा अभवत्| एकस्मिन् दिने किञ्चितकार्यवश जमनाभगिनी नगरात् बहिः गतवती| तस्मिन समये पाकस्य संवृधः उद्यमनिदेश: आगच्छत्| नन्दिनीं भोजनस्य संपूर्ण दायित्व स्वीकृतवतीअधे नन्दिन्याः समीपे स्वर्णावसरः आसीत्| सा पाकशास्त्रे तस्याः कौशलं मौलिकतां च प्रयोगं कृत्वा सस्वादिष्टं भोजनं पक्तवती| तस्याः पाकस्य बहुप्रशन्सा अभवत्| सा अन्य उद्यमनिदेशा: अपि प्राप्तवती| जमनाभगिनि अपि आनन्दिता आसीत्| इदानीं नन्दिनी बहु कुशला अभवत्| किञ्चित्समयपर्यन्तं जमनाभगिन्याः आज्ञां प्राप्य सा स्वस्य व्यवसायस्य आरम्भं कृतवती| स्वस्याः किञ्चित् बचत एवं वित्तकोषात् ऋणं प्राप्य सा व्यवसायस्य आरम्भं कृतवती|अद्य सा कुशलिनी एवं सफ़ला अस्ति| सा व्यवसायं करोति, व्यवसायेन सह पाकशास्त्र उपरि पुस्तकानि अपि लिखति| सा पाकवर्गम् अपि चालयति| 
 
अतः पथः एव ध्येयं भवितुं शक्नोति |
 

 


- नेहा शाह
 
रचनाकार परिचय
नेहा शाह

पत्रिका में आपका योगदान . . .
जयतु संस्कृतम् (1)