अगस्त 2017
अंक - 29 | कुल अंक - 55
प्रज्ञा प्रकाशन, सांचोर द्वारा प्रकाशित

प्रधान संपादक : के.पी. 'अनमोल'
संस्थापक एवं संपादक: प्रीति 'अज्ञात'
तकनीकी संपादक : मोहम्मद इमरान खान

आलेख:
आचार्यमन्वनुसारेण राजधर्मचिन्तनम्
 
मानवसृष्टेराधिकालतो मनुष्याणां परस्परसहयोगापेक्षि सामाजिकजीवनं स्वभावतः प्रादुरभवत्। समाजस्य लघुतमरुपं कुटुम्बं भवति। तस्य व्रहत्तमरुपं राज्यं साम्राज्यं राष्ट्रं च कल्पितम्। यथा स्वजनानां रक्षार्थं संवर्धनार्थ ंच कुटुम्बस्य स्वामी गृहपतिर्भवति तथैव राज्यस्य स्वामी राजा प्रवर्तते। यथा अर्थशास्त्रे उक्तम्- सर्वत्र चोपहतान पितेव राजानुगृहणीयात।1
राज्ञेव प्रजायाः भाग्यविधाता अस्ति। राजा पवित्रात्मा भवति। स प्रजाः पुष्यति। राज्यस्य रक्षणं राज्ञः प्रथमं कर्म। आचार्यमनूक्तं- ‘यथा कृषकः क्षेत्रे धान्यं रक्षति, अवान्छितानि तृणानिउच्छिनत्ति तद्वद्राजापि राज्यं रक्षेत्। शत्रूंश्च विनाशयेत्।’2 आचार्यमनुर्विश्वसिति यत्सम्यक् स्वराज्यं रक्षन् राजा सुखं वर्थयति।3 यो वा राजा स्वाभीष्टमिदं कार्यं न करोति स धु्रवं विनश्यति। मनुः कथयति, ‘यो राजा मोहवशात् स्वराज्यं न रक्षति, न न्याय्येन विधिना धनं गृह्णाति, प्रजारक्षामकृत्वैवानेकशः करं बलेनाप्नोति, स शीघ्रं राज्याद्भ्रश्यति, सबन्धुवान्धवो विनश्यति च।’ अत एव राज्ञो धर्म एव भवति यदसौ राज्यं सदैव रक्षेत्। कविदण्डी स्वदशकुमारचरिते उक्तवान- बुद्धिहीनो हि भूमृदत्युच्छ्रितोऽापि परैरध्यारूह्यमाणमात्मानं न चेतयते। न च शक्तंः साध्यं साधनं वा विभज्य वर्तितुम। अयथावृत्तश्च कर्मसु प्रतिहन्यमानः सवैः परैश्च परिभूयतो न चावज्ञातस्याज्ञा प्रभवतिप्रजानां योग क्षेमराधनाय।4 अतएव राज्ञे ज्ञानस्य महति महत्त्वं वर्तते।
 
आचार्यमनुः चिन्तयति यद् राजा शत्रुभिश्छलादिभिर्भूयोभूयः कार्ये नष्टे कृतेऽपि राष्ट्रमुन्नतं कत्र्तुं कर्माणि वारं-वारं कुर्यात्। यतो हि नैरन्तर्येण कर्मकत्र्तारं विजयश्रीर्निश्चितं वृणुते। मनोः कथनं यद् राजा सुयोग्यान् समर्थान् नीतिरतान् कत्र्तव्यनिष्ठानधिकारिणो नियोजयति। राजैव राज्यशासनविधेरादिमः प्रणेतेति मनुः। स राजानं दण्डविधाने योग्यं मन्यते। मनोरवधारणाऽस्ति यद् दण्डो वै सर्वेषां प्राणिनां रक्षको ब्रह्मतेजोमयो धर्मपुत्रः। दण्डः समेषां प्राणिनां (स्थावरजङ्गमानां) योजकः, सर्वासां प्रजानां शासकः, सुप्तेष्वपि प्राणिषु तद्रक्षकः देव-दानव-गन्धर्व-राक्षसानां, पशु-पक्षिसरीसृपाणां सर्वेषामन्येषामपि प्राणिनां कृतेऽनुकूलां भोगव्यवस्थां विदधानः समाजे च वर्णाश्रमव्यवस्थायाः स्थापयितास्ति। समाजस्य सर्वे वर्णाः स्वधर्मपालने तत्परा भवेयुरिति द्रष्टुं राज्ञो दायित्वम्। स्वधर्मपालनं सम्यक् रूपेण कत्र्तुं प्रजा तदैवोद्यता भवति यदा सा तदधिकारप्राप्त्यै स्वकर्मकरणाय चापेक्षितं सौकर्यं प्राप्नोति। यदि सर्वो लोकः स्वया पूर्णनिष्ठया तत्परतया च सम्यग्रूपेण स्वकत्र्तव्यपालनं विदधाति तर्हि नोदेत्वव्यवस्थाया स्थितिः।
 
आचार्यमनुः विचारयन्ते यद् विरल एव जनो निर्दोषः साधुश्च भवति। कौटिल्यश्च विचारयति यत्सर्वथा निर्दोषेण निर्लिप्तेन च मनुष्येण भवितुं नैव सम्भाव्यम्। कामः, क्रोधों, लोभोऽहंकारो मदो हर्षश्च लोकस्य शत्रवः। कदैते तं संप्रेर्याधर्ममाचरितुं दुराचाराय प्रवत्र्तयिष्यन्तीति निश्चयेन वक्तुं नैव शक्यम्। लोकं दुराचारणादधर्माच्च रोद्धुं दण्डस्य व्यवस्था कृतास्ति। पुरातनाचार्याणां मते दण्डं विना नास्ति कोऽप्युपायो येन सर्वे प्राणिनः सरलतया वशे स्युः। मनोर्मते राजपदस्योत्पत्तेरिदमेवौचित्यम्। तेन उक्तम्- 
तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम्। 
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः।5 
तस्य मते राजः प्रयोजनस्य सिद्धयर्थमेवेश्वरेण प्राणिनां रक्षको ब्रह्मतेजोमय एको दण्डो निरमायि। आचार्य मनोः मते दण्डस्य महती आवश्यकता वर्तते। तेनालिखितम्-
दण्डः शस्तिप्रजाः सर्वा दण्डएवाभिरक्षति।
दण्डः सप्तेषु जागर्ति दण्डं धर्मं विदुबुंधाः।।6
तस्माज्ज्ञानिनो दण्डमेव धर्म प्रवदन्ति। आचार्यमनुः मते ‘स एव दण्डो वस्तुतो राजा, स एव नेता शास्ता च। स एव चतुर्णामाश्रमाणां प्रतिभूस्वरूपधृक्। तदनुसारेण, ‘मनुष्ये दैवी प्रवृत्तिरस्ति तद्वदासुरी प्रवृत्तिश्च वत्र्तते। अर्थान्नरो देवोऽसुरश्च दैवी वृत्तिः शुद्धतां शान्तिं च प्रयच्छति। आसुरी वृत्तिः कत्र्तव्यविमुखतां भगवतो विमुखतां च यच्छति। राज्ञः कर्मणः सिद्धयर्थ भगवता ब्रह्मणा चराचरार्थ दण्डः सृष्टः राज्ञे चार्पितः।’ कौटिल्येनापि एष आशयः पोषिटीकृतः। स लिखति, स एव दण्डोऽप्राप्तवस्तुनि प्रापयति, प्राप्तानि च रक्षति, रक्षितानि च वृद्धिं गमयति, समुचितेषु कर्मसु च तानि प्रयोक्तुं निर्दिशति। तस्मिन्नेव सर्वालोकयात्रा निर्भरा विद्यते। मनुमते तु न केवलं मनुष्या अपितु देवा, दानवा, गन्धर्वा, राक्षसाः, पशवः, पक्षिणौ नागाश्च सर्वे दण्डभयेन भीताः सन्त एव नियमान् वहन्ति।
 
स विचारेण यद्राजा देशं, कालं, दण्डं, शक्तिं विद्यां च यथापराधं यद्दण्डं तत्सम्यक् परीक्ष्यैव यथाशास्त्रं दण्डमपराधिभ्यो यच्छेत्। तस्यमते यत् यः सुविचार्य प्रयुक्तो दण्डः स प्रजाः प्रसादयति। अन्यत्र स कथयति यद्दण्डाधिकारी चेत् स्वतो न्याय्येन विधिना स्वकर्म करोति तदा न प्रजा क्लिश्यति। तस्माद् दण्डप्रवत्र्तकं, सत्यवादिनं, सम्यक् समीक्षितारं, प्रबुद्धं, राजानां, मन्वादयो महर्षयो धर्मार्थकामानां वेत्तारं मन्वते। मनोर्वचनं यद् यथोचितं दण्डं विदधानो राजा धर्मार्थकामानां यथाविधि वृद्धिं लभते तदा जगति तद्यशश्चाम्भसि तैलविन्दुरिव विस्तारं याति। एवंविधो राजाऽस्मिंल्लोके परत्र च सुखमाप्नोति। योग्यः समर्थश्च नृप एव तेजोमयमेनं दण्डं धारयितुं शक्नोति। दण्डशक्तिरेव सर्वातिशायिनी भवति। तस्मात् तस्या वासो राजनि भवति। परं राज्ञापि दण्डप्रयोगकाले सम्यगालोचनीयं यदेतस्य प्रयोगो विवेकेन भवति न वा। राजा स्वविवेकेन स्वबुद्धिं सुनियम्य दण्डनियमान् व्याख्यायेत प्रयुज्येत च। न खले नृपर्तिर्दण्डनियमनिर्माताऽपितु तद् व्याख्यातैव।
 
आचार्यमन्वनुसारेण दण्डादेव नृपतेः प्रभुसत्ता लोकोऽनुभवति, प्रभुत्वं दण्डे तिष्ठति। दण्डेनैव तेजोमयो भूत्वा नृपो लोकं शास्ति। दण्डादेव विद्रोहिणः शमं यान्ति। प्रजा च स्वकर्म सम्यक् करोति। राज्ञो दण्डस्याभिव्यक्तिस्तत्सेनां, तदेनुयायिनोऽधिकारिणो तच्छत्रूंश्च दमयितुं या शक्तिः सा तस्यां भवति। यद्यपि नृपः प्रभुसत्तासम्पन्ना भवति तथापि स निरङ्कुशो भवितुं नार्हति। सर्वातिशायिन्यामपि धर्म सा नातिशेते। धर्मः सर्वोपरि प्रतिष्ठतः धर्मविपरीतमाचरन् नृपः श्रद्धाभक्तिविश्वासपात्रतां लोकस्य नार्हति। एवंभूतं धर्मविहीनं नृपतिं लोको हन्तुं शक्नोति।
आचार्यमनुः राजानमुपदिशति यत् स नापराधिनं मर्षयेत्। कमप्यपरधिनं दण्डान्न मोचपयेत्। स्वस्य मातरं, पितरं, गुरुं, स्त्रियं, पुत्रं, मित्रं, पुरोहितं वा धर्मच्युतं सन्तं वीक्ष्य राजा निःसङ्कोचं तानपि दण्डेन योजयेत न ततो विमोच्येत्। परमत्रेदं, ज्ञातव्यमस्ति यन्मनोर्मते बालो, वृद्धो, रोगी, आत्र्तः केनापि कारणेन राजनिन्दां चेत्करोति तदा तादृशा नापराधेन योज्याः तस्मात्त्तेषु दण्डं न धारयेत्। अपितु तान् क्षाम्येत्। अनेन क्षमापणेन राजा पुण्यवान् भवति। आत्र्तकृतानाक्षेपान् सहमानो नृपः स्वर्गे पूज्यते। किन्तवैश्वयमदान्धस्तादृगाक्षेपानसहमानो दण्डप्रयोक्ता नरकमाप्नुते।
 
राज्ञः कत्र्तव्यं यद् धर्मरक्षायै दण्डस्य प्रयोगं कुर्यात्। यो दण्डो धर्मरक्षको न भूत्वा धर्मभक्षको भवति तं दण्डं प्रजा न स्वीकुरुते। एवं कुदण्डेन प्रयोक्तुः राज्ञो विनाशः स्वयमेव भवति, जनता वा तं नाशयति। कौटिल्येनापि बृहद्धर्मस्थाधिकरणे दण्डवव्यथायां विस्तरेण विचारः कृतः। वाचस्पति गैरोला मनुते, कौटिल्येनापि दण्डव्यवस्थामधीत्य तस्य तत्त्वदर्शिन्या बुद्धे परिचयस्तु भवति, परमुद्देशस्य प्रतिपादनेऽनेनैतावान् कालो यापितो यत्तत्कल्पितनिष्कण्टकसाम्राज्यस्य सत्तायामपि पाठकः सन्देग्धि, दण्डाधिक्यपूर्णव्यवस्थया च विभेति। मनुनापि सविस्तरं दण्डव्यवस्था निरूपिता। श्रीगैरोलामहोदयस्योपरिदर्शितो विचारो न मनौ घटते। यथा च सुस्पष्टमालोचितम्। प्रस्तुतविषये कौटिल्यमते राज्ञा सम्यग्दण्डवता भाव्यम्। तीक्ष्णदण्डाल्लोक उद्विजते, मृदुदण्डश्चालोच्यते। (तीक्ष्णादुद्विजते लोको मृदुश्च परिभूयते)। अपराधिनः स्वेच्छयापराधेषु भूयो भूयः प्रवृत्ति अपराधस्य स्थलं कालश्च सर्वमेतत्समालोच्य तस्य दैहिकीं सामजिकीं च स्थितिं समीक्ष्य, अपराधस्य लाघवं गौरवं वा सुविचार्य तदनु दण्डनीयपराधिनं दण्डेन योजयेत्।9 सः दण्डाप्राप्तयै दशस्थानान्यप्यवर्णयत्, तद्यथा- 
‘उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम्।
चुश्रुर्नासाच कर्णौ च धनं देहस्तयैव च।।10
अपराधानां तत्कृते दीयमानदण्डानां च विवरणं संक्षेपतो दर्शितेनैवंविधेन प्रकारेण कर्तुं शक्यते:- लोभात्, मोहात्, भयात्, मैत्रीवशात् साक्ष्येऽसत्यभाषणाय दण्डः, कामात्, क्रोधात्, अज्ञानात्, मौढयाद् वाऽसत्यसाक्ष्याय दण्डः स्थापितः। अग्रेव्यवसितं असत्यसाक्ष्यदात्रे क्षत्रियाय, वैश्याय, शूद्राय च यथोक्तं दण्डं दत्वा देशात् निष्कासयेत्। किन्तुब्राह्मणाय केवलं देशात् निष्कासयेत।11
 
न्याससम्बद्धापराधेभ्योऽपि दण्डविधिर्मनुस्मृतौ विहितः। न्यासं निक्षिप्य न प्रत्ययति, न्यासमनिक्षिप्यापि तत्प्रत्यर्पणं काङ्क्षते। उभावप्येतौ चैरतुल्यदण्डार्हौ।12 प्रतिज्ञानभङ्गापराधविचारे गवादिपशुपातकेषु तत्स्वामिषु च समयभङ्गे विवादोजायेत। एतस्यापि सम्यग्दण्डविधिः प्रवर्तितः। रथसारथिरथिषु च विवादे सति तदपराािभ्योपि दण्डविधानां कृतम्।13 परं दशविधेष्वपराधेषु सारथी दण्डनीयो न भवति। किमपि त्रुटिते, रथे मार्गाद्बहिर्याते, कूबरे चक्रे च भग्ने, चर्मबन्धने, वाहनग्रीवाबन्धने, प्रगहे च त्रुटिते, सारथिनोच्चैः स्वरेण ‘अपसरत अपरसरत’ इति घोषितेऽपि लोकस्य प्रमादात् जाते कष्टे च सारथी दण्डनीयो न भवति।14
 
प्रजानां शासन विषये प्रतिपदं विधि व्यवस्था दण्डनीतिश्चावश्यिकी भवति अतः सम्यकं प्रजापालनार्थाय मन्त्रिमण्डलस्य अत्यावश्यकता भवति। अस्मिन् विषये आचार्यमनुः उक्तवान-
अपियत्सुकरं कर्म तदप्येकेन दुष्करम्।
विशेषतोऽसहायेन किन्तु राज्यं महोदयम्।।
तैः सार्धः चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम्।
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च।।15
राजधर्मचिन्तस्य अन्तर्गते दूर्गस्य अतिमहत्वं वर्तते। द्वर्गेव राज्यस्य सुशासन व्यवस्थायाः प्रतीकं मन्यते। दुर्गस्य विषये आचार्यमनु स्वस्मृतिग्रन्थे लिखितम्-
धन्वदुर्गं महीदुर्गमष्दुर्गं वाक्र्षमेव वा
नृ दुर्गं गिरिदुर्गं वा समाश्रिय वसेत्पुरम्।।16
 
आचार्य मनु स्वग्रन्थे युद्धविषये सम्यकवर्णनं क्रियन्ताम्। वस्तुतः युद्धस्यावास्यकता नैकविधाः सन्ति। पृथग्जनानां युद्धं स्वार्थसमीहितं स्वाभाविकं वा प्रकृतेर्गुणैः क्रियमाणं वा सृष्टेरादिकालतः प्रचरति। देवा, ऋषयों, राक्षसा दानवाः सर्वे युद्धाभिमुखा आसन्। अतः आचार्यमनु स्वस्मृतिग्रन्थे युद्धस्य नियमः प्रतिपादितवान्। यत्र राज्ञे युद्धस्य अतिमहत्तं वर्णनं अस्ति-
संग्रामेष्वनिवर्तित्त्वं प्रजानां चैव पालनम्।
शुश्रूषा ब्राह्मणां च राज्ञा श्रेयस्करं परम्।।
आहवेषु मियोदन्योन्यं विद्यासन्तो महीक्षितः।
युध्यमानाः परंशक्त्या स्वर्ग यान्त्यपराङ्मुखा।।17
 
महाभारतानुसारेण युद्धस्य परं शाश्वतं च कारणमस्ति भूमि प्राप्तिः-
भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति।
भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम्।।
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम्।
तत्राभिगृद्धा राजानो विनिध्नन्तीतरेतरम्।।18
अहंभद्र प्रतिष्ठा कारणन्महतामपि युद्धं समभवत्। महाभारते तदनुशिशुपालवधे कृष्णशिशुपालयोर्मध्ये यद् भीषणयुद्धं समारब्धं तस्य कारणमासीत शिशुपालस्याभियानो यदहं कृष्णादपि महत्तरो ममाग्रपूजोचिता न कृष्णस्येति। एवमेवोद्दण्डानां लोकविद्वेषकारिणां शमनाय युद्धं कृतमासीत। मनुस्यमृत्यां द्वतविषये सम्यकं प्रतिपादितम् राजधर्मचिन्तनान्तर्गते दूतस्य वहुमहत्त्वं अस्ति। तस्य विषये आचार्यमनुः उक्तवान्-
दूतएव हि संघत्ते भिनत्येव च संहतान्।
दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवाः।।19
एवं प्रकारेण मनुस्मृतिग्रन्थे राजधर्मस्य विविधस्वरुपाणां वर्णनमस्ति। अस्मिन् ग्रन्थे राजामन्त्रिदूतादिनां विषये वहुविस्तारेण तस्य स्वरूपं कत्र्तव्यं च उद्घाटितम्। राजधर्म अन्तर्गते राज्ञः कत्र्तव्यं, तस्य दुर्गव्यवस्था युद्धनीतयश्च विषये बहुप्रकारेण व्याख्या प्राप्तम्। अतः राजधर्मस्य विविध प्रकारेण वर्णनेन मनुस्मृतिं राजधर्मस्य कोशः कथने न काऽपि अत्युक्तिः वर्तते।
 
संदर्भ -
1. अर्थशास्त्रे, 4/3/54
2. मनुस्मृति, 7/110
3. तत्रैव, 7/113
4. दशकुमारचरिते, उत्तरपीठिकायां अष्टमोच्छ्वासः, पृ. 415
5. मनुस्मृति, 7/14
6. तत्रैव, 7/18
7. तत्रैव, 7/16
8. मनुस्मृति, 8/335
9. तत्रैव, 8/126
10. तत्रैव, 8/125
11. तत्रैव, 8/380
12. तत्रैव, 8/160-61
13. तत्रैव, 8/263-64
14. तत्रैव, 8/263-62
15. तत्रैव, 6/55-56
16. तत्रैव, 6/60
17. तत्रैव, 6/88-89
18. महाभारते, भीष्मपर्व, 5/20-21
19. मनुस्मृति, 6/66

- डाॅ. संजय कुमार

रचनाकार परिचय
डाॅ. संजय कुमार

पत्रिका में आपका योगदान . . .
जयतु संस्कृतम् (1)